top of page
सङ्कष्टनाशनं सङ्कटाष्टकस्तोत्रम् सङ्कटास्तोत्रम् (पद्मपुराणान्तर्गतम्) | sankashtanashanam sankatashtaka stotram
सङ्कष्टनाशनं संकटाष्टकस्तोत्रम्
श्रीगणेशाय नमः ।
ध्यानम्
ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां
सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शुभाम् ।
अक्ष-स्रग्-जलपूर्णकुम्भ-कमलं शंखं गदा बिभ्रतीं
त्रैशूलं डमरूश्च खड्ग-विधृतां चक्राभयाढ्यां पराम् ॥
ॐ नारद उवाच
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥ १॥
न तृप्तिमधिगच्छामि तव वागमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ॥ २॥
इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः ।
सङ्कष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम ॥ ३॥
द्वापरे…